सप्तविंशः पटलः - हृदयाब्जकथनम्

षट्‍चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम्


तेनानाहतपद्माख्यं योगिनां योगसाधनम् ।
आनन्दसदनं तत्तु सिद्धेनाधिष्ठितं परम् ॥६५॥

तदूद्‌र्ध्वं तु विशुधाख्यं दलषोडशपङ्कजम् ।
वर्णः षोदशभिर्युक्तं धूम्रवर्णं महाप्रभम‍ ॥६६॥

योगिनामद्‌तस्थानं सिद्धिवर्णं समभ्यसेत् ।
विशुद्धं तनुते यस्मात् जीवस्य हंसलोकनात् ॥६७॥

विशुद्धं पद्ममाख्यातमाकाशाख्यं महाप्रभम् ।
आज्ञाचक्रं तदूद्‌र्ध्वे तु अर्थिनाधिष्ठितं परम् ॥६८॥

आज्ञासंक्रमण तत्र गुरोराज्ञेति कीर्तितम् ।
कैलासाख्यं तदूर्ध्वे तु तदूर्ध्वे बोधनं ततः ॥६९॥

एवंविधानि चक्राणि कथितानि तव प्रभो ।
तदूद्धर्वस्थानममलं सहस्त्राराम्बुजं परम् ॥७०॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP