सप्तविंशः पटलः - मंत्रयोगार्थनिर्णयकथनम्

षट्‍चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम्


कामादिदोषनाशाय कथितं ज्ञानमुत्तमम् ।
इदानीं श्रॄणु वक्ष्यामि मन्त्रयोगार्थनिर्णयम् ॥४७॥

विश्वं शरीरमाक्लेशं पञ्चभूताश्रयं प्रभो ।
चन्द्रसूर्याग्नितेजोभिः जीवब्रह्मैकरुपकम् ॥४८॥

तिस्त्रः कोट्यस्तदर्धेन शरीरे नाड्यो मताः ।
तेषु मुख्या दश प्रोक्तास्तासु तिस्त्रो व्यवस्थिताः ॥४९॥

प्रधाना मेरुदण्डेऽत्र सोमसूर्याग्निरुपिणी ।
नाईत्रयस्वरुपेण योगमाता प्रतिष्ठिता ॥५०॥

इडा वामे स्थिता नाडी शुक्ला तु चन्द्रपिणी ।
शक्तिरुपा च सा नाडी साक्षादमृतविग्रहा ॥५१॥

दक्षिणे पिङालाख्या तु पुंरुपा सूर्यविग्रहा ।
दाडिमीकुसुमप्रख्या विषाख्या परिकीर्तिता ॥५२॥

मेरुमध्ये स्थिता या तु सुषुम्ना बहुरुपिणी ।
विसर्गाद्‌बिन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥५३॥

मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।
मध्ये स्वयंभूलिङं तं कोटिसूर्यसमप्रभम् ॥५४॥

तदूर्ध्व कामबीजं तु कलाशान्तीन्दुनायकम् ।
तदूर्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा ॥५५॥

तद्‌बाह्ये हेमवर्णाभं वसुवर्णचतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥५६॥

तदूर्ध्वऽग्निसमप्रख्यं षड्‌दलं हीरकप्रभम् ।
वादिलान्तं तु षड्‌वर्णसहितं रसपत्रकम् ॥५७॥

स्वाधिष्ठानाख्यममलं योगिनां ह्रदयङुमम् ।
मूलमाधारषट्‌कानां मूलाधारं प्रकीर्तितम् ॥५८॥

स्वशब्देन परं लिङं स्वाधिष्ठानं स्वलिङकम् ।
तदूर्ध्वे नाभिदेशे तु मणिपुरं महाप्रभम् ॥५९॥

मेघाभं विद्युताभं च बहुतेजोमय्म ततः ।
मणिमदि‌भन्नतत्पंद्मं मणिपूरं शशिप्रभम् ॥६०॥

कथितं सकलं नाथ ह्रदयाब्जं श्रृणु प्रिय ।
दशभिश्च दलैर्युक्तं डादिफान्तक्षरान्वितम् ॥६१॥

शिवेनाधिष्ठितं पद्मं विश्वालोकनकारकम् ।
तदूर्ध्वेऽनाहतं पद्मं ह्रदिस्थं किरणाकुलम् ॥६२॥

उद्यदादित्यसङ्काशं कादिठान्ताक्षरान्वितम् ।
दलद्वादशसंयुक्तमीश्वराद्यसमन्वितम् ॥६३॥

तन्मध्ये बाणलिङं तु सूर्यायुतसमप्रभम् ।
शब्दब्रह्ममयं वक्ष्येऽनाहतस्तत्र दृश्यते ॥६४॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP