श्रीभैरवी उवाच
अथातः सम्प्रवक्ष्यामि ब्रह्ममार्गमनुत्तमम् ।
यद् यज्ज्ञात्वा सुराः सर्वे जयाख्याः परमं जगुः ॥१॥

न तन्तेजःप्रकाशाय महतां धर्मवृद्धये ।
योगाय योगितां देव भक्षप्रस्थनिरुपणम् ॥२॥

योगाभ्यास यः करोति न जानातीह भक्षणम् ।
कोटिवर्षसहस्त्रेण न योगी भवति ध्रुवम् ॥३॥

अतो वै भक्षमाहात्म्यं प्रवदामि समासतः ।
यज्ज्ञात्वा सिद्धिमाप्नोति स्वाधिष्ठानादिभेदनम् ॥४॥

आदौ विवेकी यो भूयाद भूतले परमेश्वर ।
स एव भक्षनियमं गृहेऽरण्ये समाचरेत् ॥५॥

वाय्वासन दृढानन्दपरमानन्दनिर्भरः ।
मिताहारं सदा कुर्यात पूरकाहलादहेतुना ॥६॥

तदा पूरकसिद्धिः स्याद् भक्षणादिनिरुपणात् ।
उदरं पूरयेन्नित्यं कुम्भयित्वा पुनः पुनः ॥७॥

निजहस्तप्रमाणाभिः पूरयेत् पूर्णमेव च ।
तत्पूरयेत् स्थापयेन्नाथ विश्वामित्रकपालके ॥८॥

हंसद्वादशवारेण शिलायामपि घर्षयेत् ।
नित्यं तत्पात्रपूण च पाकेनैकेन भक्षयेत् ॥९॥

तण्डुलान् शालिसम्भूतान्कपालप्रस्थपूर्णकान् ।
दिने दिने क्षयं कुर्याद् भक्षणादिषु कर्मसु ॥१०॥

हंसद्वादशवारेण जपेन संक्षयं चरेत् ।
शिलायां तत्कपालं च वर्द्धयेत् पूरकादिकम् ॥११॥

यावत्कालं क्षयं याति निजभक्षणनिर्णयम् ।
तत्काल्म वायुनापूर्य नोदरं काकचञ्चुभिः ॥१२॥

आकुञ्चयेत् सदा मूले कुण्डली भक्षधारणात् ।
तत्र सम्पूरयेद्योगी भक्षप्रस्थावनाशनात् ॥१३॥

कालक्रमेण तत् सिद्धिमाप्नोति जितेन्द्रियः ।
यत्स्थानं भक्षणस्यैव तत्स्थाने पूरयेत्सुखम् ॥१४॥

पुनः पुनर्भक्षणेन भक्षसिद्धिमुपैति हि ।
विना पूरकयोगेन भक्षणं नापि सिद्धयति ॥१५॥

अथवान्यप्रकारेण भक्षत्यांग विनिर्णयम् ।
येन हीना न सिद्धयन्ति नाडीचक्रस्थदेवताः ॥१६॥

द्वात्रिंशद् ग्रासमादाय त्रिपर्व्वाणि यथास्थितम् ।
अर्द्धग्रासं विहायापि नित्यं भक्षणमाचरेत् ॥१७॥

सदा सम्पूरयेद् वायुं भावको गतभीर्ममहान् ।
भक्षस्थाने समायोज्य पिबेद् वायुमहर्निशम् ॥१८॥

चतुःषष्टिदिने सर्वं क्षयं कृत्वा ततः सुधीः ।
पयोभक्षणमाकुर्यात् स्थिरचेता जितेन्द्रियः ॥१९॥

पयः प्रमाणं वक्ष्यामि हस्तप्रस्थत्रयं त्रयम् ।
शनैः शनैर्विजेतव्याः प्राणा मत्तगजेन्द्रवत् ॥२०॥

षण्मासाज्जायते सिद्धिः पूरकादिषु लक्षणम् ।
क्रमेणाष्टाङसिद्धिः स्यात् यतीनां कामरुपिणाम् ॥२१॥

बद्धपद्मासनं कृत्वा विजयानन्दनन्दितः ।
धारयेन्मारुतं मन्त्री मूलाधारे मनोलयम् ॥२२॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP