षोडशस्वरभेदेन फलं श्रृणु महाप्रभो ।
संक्षेपेण प्रवक्तव्यमुत्कृष्टं फलकाङि‌क्षणाम् ॥७१॥

श्लोकत्रयेण(द्वयेन)तत्सर्वं फलमत्यन्तसाधनम् ।
ये कुर्वन्ति महादेव कामचक्रोत्सवं यथा ॥७२।

अ आ इ ई उ ऊ ऋ ऋ
आद्याष्टस्वमङुल जपति यः श्रीनाथवक्त्राम्बुजां
प्राप्य श्रीधरनायकः क्षितितले सिद्धो भवेत्  तत्क्षणात् ।
राजा राजकुलेश्वरो जयपथे दीपोज्वलामायला
सम्पश्येत् परमां कलां जयति सः कामानलं ताडयेत् ॥७३॥

लृ लृ ए ऐ ओ औ अं अः ।
शेषाष्टौ स्वरपावनी प्रियजनानन्देन मन्दोदरी
मन्त्रं हन्ति मदानना त्रिजगतां साधूत्तमानां सुखम्
दत्त्वा पालयाति प्रभा प्रलयके कौटिल्यविद्यापहा
भक्तये क्षितिपालनं निजजपध्यानाकुलामङुलम् ॥७४॥

इति वर्णफलं ज्ञात्वा गृहणाति मनूत्तमम् ।
स भवेत् कुलयोगार्थी सिद्धज्ञानी महीतले ॥७५॥

वर्गे वर्गे फलं नाथ श्रृणु वक्ष्यामि अद्‌भुतम् ।
प्रश्नादीनाञ्च कथनं यो जानाति स साधकः ॥७६॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP