पञ्चदशः पटलः - ब्रह्मज्ञानीलक्षणम्

वेदप्रकरणम्


मणौ लोष्ठे समं ध्यानं धर्मेऽधर्मे जयेऽजये ।
कृत्वा त्यागी भवेद्यस्तु ब्रह्मज्ञानी स साधकः ॥५०॥

सदा ईश्वरचिन्ता च गुरोराज्ञा व्यवस्थितिः ।
सुशीलो दीनबन्धुश्च धार्मिकः परिकीर्तितः ॥५१॥

कालज्ञो विधिवेत्ता च अष्टाङयोगविग्रहः ।
पर्वते कन्दरे मौनी भक्तो योगी प्रकीर्तितः ॥५२॥

ब्रह्मज्ञानी चावधूतः पुण्ययात्मा सुकृती शुचिः ।
वाञ्छाविहिनो धर्मात्मा स योगी परिकीर्तितः ॥५३॥

वाग्वादिनीकृपापात्रः षडाधारस्य भेदकः ।
ऊर्ध्वरेता स्त्रीविहिनः स योगी परिकीर्तितः ॥५४॥

यजुर्वेदपुरोगामी यजुःपत्रस्थवर्णधृक्‍ ।
वर्णामालाचित्तजापो भावुकः स हि योगिराट्‌ ॥५५॥

मासद्वादशकग्रस्तं राशिद्वादशकान्वितम् ।
तिथिवारं तु नक्षत्रयुक्तमाज्ञाम्बुजं भजेत् ॥५६॥

दिक्कालदेशप्रश्नार्थ वायवीशक्तिनिर्णयम् ।
बालवृद्धास्तादिदण्डपलनिश्वाससंख्यया ॥५७॥

व्याप्तमाज्ञाचक्रासारं भजेत् परमपावनम् ।
चक्रे सर्वत्र सुखदं सतां हानिर्न च प्रभो ॥५८॥

खलानां विपरीतञ्च निन्दकानां पदे पदे ।
दुःखानि प्रभवन्तीह पापिनाञ्च फलाफलम् ॥५९॥

पापी पञ्चत्त्वमाप्नोति ज्ञानी याति परं पदम् ।
यः श्वासकालवेत्ता च स ज्ञानी परिकीर्तिताः ॥६०॥

श्वासकालं न जानति स पापी परिकीर्तितः ।
यजुर्वेदं सत्त्वगुण सत्त्वाधिष्ठाननिर्मलम् ॥६१॥

गुरोराज्ञाक्रमेणैव अधस्तत्त्वेन कुण्डलीम् ।
महाशक्तिं समाप्नोति ऊद्‌र्ध्वाधः क्रमयोगतः ॥६२॥

यजुर्वेदं महापात्रसत्त्वाधिष्ठानसेवया ।
ललाटमृतधाराभिश्चैतन्या कुण्डली भवेत् ॥६३॥

विभाव्य द्विदलं चक्रं होमं कुर्यादहर्निशम् ।
शुद्धाज्यैर्जुहुयान्मन्त्री अधस्तुण्डे च कुण्डलीम् ॥६४॥

भजन्ति रुद्धेन्दिय शुद्धयोगं
प्रचण्डरश्मिप्रगताङ्सुन्दराः ।
आम्बुजं चक्रवरं चतुद्‌र्दलं
यन्मध्यदेशे शतकोटितेजसम् ॥६५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने भावनिर्णये पाशवकल्पे आज्ञाचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे वेदप्रकरणोल्लासे भैरवभैरवीसंवादे पञ्चदशः पटलः ॥१५॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP