द्वादशः पटलः - भावप्रश्नार्थबोधकथनम्

पञ्चस्वरविधानम्


आनन्दभैरवी उवाच
तद्वामसन्धिदेशस्थमष्टमाङ्कमथो लिखेत् ।
तदधः सन्धिदेशस्थं सप्ताङ्क विलिखेद् बुधः ॥१॥

तदूर्ध्वं वामकोणे च तृतीयाङ्कं लिखेत्ततः ।
तदूर्ध्वं कोणगेहे च युग्माङ्कं विलिखेत्तथा ॥२॥

तद्दक्षिणे गृहे चैकमङ्कवर्णं श्रृणु प्रभो ।
भावप्रश्नार्थबोधकथनम्
वसुभाव शून्यभावं षष्ठभावञ्च शून्यकम् ॥३॥

एतन्मध्ये नास्ति वर्णं कोणाङ्कञ्च सवर्णकम् ।
टतवर्गौ श श लिखेत् शरे शून्याध एव च ॥४॥

वेदाङ्कस्थौ कचवगौं एऐकारसमन्वितौ ।
तृतीयाङ्कास्थितं वर्णं आदिक्षान्तं टवर्गमोम् ॥५॥

तपवगौं युगान्तस्थौ मकारं सावधानतः ।
विलिखेद् दक्षिणे तस्य गेहे चैकाङ्कमध्यके ॥६॥

उयुगं पतवर्गौ च अकारं युग्मशीर्षके ।
एतत् चक्रं कामचक्रं प्रश्नकाले फलप्रदम् ॥७॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP