आनन्दभैरवी उवाच
अथ पूजां प्रवक्ष्यामि कुमार्याश्चातिदुर्लभाम् ।
व्याधिवर्गविहीनानां शीघ्रं सिद्‌भ्यति भूतले ॥१॥

तत्प्रकारं महादेव वीराणामधिपाधिक ।
पूजास्थानं महापीठं देवालयमथापि वा ॥२॥

सुन्दरीं परमाननन्दवर्द्धनीं जयदायिनीम् ।
कालरात्रिस्वरुपां श्रीं गौरीं रक्ताङुरागिणीम् ॥३॥

कन्यां देवकुलोद्‌भूतां राक्षसीं वा नरोत्तमाम् ।
नटीकन्यां हीनकन्यां तथा कापालिकन्यकाम् ॥४॥

रजककस्यापि कन्यां ते तथा नापितकन्यकाम् ।
गोपालकन्यकाञ्चैव तथा ब्राह्मणकन्यकाम् ॥५॥

शूद्रकन्यां वैश्यकन्यां तथा वैद्यकन्यकाम् ।
चण्डालकन्यकां वापि यत्र कुत्राश्रमे स्थिताम् ॥६॥

सुह्रद्वर्गस्य कन्यां च समानीय प्रयत्नतः ।
पूजयेत् परमानन्दैत्मध्याननारायणः ॥७॥

क्रमशः श्रृणु देवेन्द्र वरहस्तनिषेवित ।
परमानन्दसौन्दर्य कारणान्दविग्रहः ॥८॥

मम पूजां यः करोति प्रत्यहं शुद्धभक्तितः ।
तस्यावश्यं कुमारीणां पूजनं भोजनं रवेः ॥९॥

तेजोरुपं विधोश्चाग्नेः सर्वभावे प्रशस्यते ।
तत्पूजनात् तदालापाद्‍ भोजनादपि तत् शुभम् ॥१०॥

मम प्रीतिर्भवेत्साक्षाद्‌ देवतागुप्तिसंस्थिता ।
बालभैरवदेवस्य कामिनीवटुकस्य च ॥११॥

मत्पुत्रस्य सर्वलोकीपूजितस्य महौजसः ।
पूजाभिर्विवेधैर्दिव्यैः कुमारी देव पूजिता ॥१२॥

कुमारी कन्यका प्रोक्ता सर्वज्ञा जगदीश्वरी ।
पूजार्थं सर्वलोकास्य समानीय सुरेश्वराः ॥१३॥

पूजयन्ति महादेवीं गुप्तभावनिवासिनीम् ।
सदा भोजनवाञ्छार्घ्या माल्यसन्तुहासिनीम् ॥१४॥

वृथा न रौति सा देवी कुमारी देवनायिका ।
सरस्वतीस्वरुपा च पूज्यते सर्वनायकैः ॥१५॥

शिवभक्तैर्विष्णुभक्तैस्तथान्यदेवपूजितैः ।
सर्वलोकैः पूजिता सा चावश्यं पूज्यते बुधैः ॥१६॥

पूजया लभते पूजां पूजया लभते श्रियम् ।
पूजया धनमाप्नोति पूजया लभते महीम् ॥१७॥

पूजया लभते लक्ष्मीं सरस्वतीं महौजसम् ।
महाविद्याः प्रसीदन्ति सर्वे देवा न संशयः ॥१८॥

बालभैरवब्रह्मेन्द्रा ब्राह्मणा ब्रह्मवादिनः ।
रुद्राश्च देववर्गाश्च वैष्णवा विष्णुरुपिणः ॥१९॥

अवताराश्च द्विभुजा विष्णवो अनुशोभिताः ।
अन्ये दिक्‌पालदेवाश्च चराचरगुरुस्तथा ॥२०॥

नानाविद्यायुतास्सर्वे दानवा कूटशालिनः ।
अपवर्गस्थिता ये ये ते ते तुष्टा न संशयः ॥२१॥

यद्यहं तुष्टिरुपा हि अन्ये लोके च का कथा ।
कुमारी पूजनं कृत्वा त्रैलोक्यं वशमानयेत् ॥२२॥

महाशान्तिर्भवेत् क्षिप्रं सर्वपुण्य़ं फलप्रदम् ।
तत्तमन्त्रसदुल्लेखात् क्षणात् पुण्ययुतं भवेत् ॥२३॥

मन्त्रेण पुटितं कृत्वा जप्त्वा सिद्धीश्वरो भवेत् ।
यद्यत् प्रकारमुच्चार्य वदामि सुरसुन्दर ॥२४॥

तत्तत् कार्यमवश्यं च भिन्नबुद्धिं न कारयेत् ।
भैरव उवाच
अथ बीजप्रभेदञ्च वद शङ्करपूजिते ॥२५॥

यदि मां स्नेहपुञ्जाऽस्ति मत्कुलार्थप्रवेशिनि ।
वदस्व परमानन्द भैरवि प्राणवल्लभे ॥२६॥

आनन्दभैरवी उवाच
श्रृणु नाथ कुलार्थं मे कुमारीपूजने मनुम् ।
महामन्त्रं महामन्त्रं सिद्धमन्त्रं न संशयः ॥२७॥

एतन्मन्त्रप्रसादेन जीवन्मुक्तो भवेत् सुधीः ।
अन्ते देवीपदं याति सत्यमानन्दभैरव ॥२८॥

ऐहिकसुखसम्पत्तिर्मधुमत्याः प्रसादकम् ।
अवश्यं प्राप्नुयान्मर्तो विश्वास कुरु शङ्कर ॥२९॥

वाग्भवेन पुरः क्षोभं मायाबीजे गुणाष्टकम् ।
श्रियोबीजे श्रियोलाभो मायाबीजे रिपुक्षयः ॥३०॥

भैरवेण तु बीजेन खेचरत्वं सुरादिभिः ।
कुमारिका ह्यहं नाथ सदा त्वं हि कुमारकः ॥३१॥

अष्टोत्तरशतं वापि एकां वा परिपूजयेत् ।
पूजिताः प्रतिपद्यन्ते निद्‌र्दहन्त्यवमानिताः ॥३२॥

कुमारी योगिनी साक्षात् कुमारी परदेवता ।
असुरा अष्टनागाश्च ये ये दुष्टाग्रहा अपि ॥३३॥

भूतवेतालगन्धर्वा डाकिनीयक्षराक्षसाः ।
याश्चान्या देवताः सर्वाः भूर्भुवः स्वश्च भैरव ॥३४॥

पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥३५॥

ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् ।
निधियुक्तां कुमारीं तु पूजयेच्चैव भैरव ॥३६॥

पाद्यमर्घ्यं तथा धूपं कुङ्‌कुमं चन्दनं शुभम् ।
भक्तिभावेन सम्पूज्य कुमारीभ्यो निवेदयेत् ॥३७॥

प्रदक्षिणात्रयं कुर्यादादौ मध्ये तथान्ततः ।
पश्चाच्च दक्षिणा देया रजतस्वर्णमौक्तिकैः ॥३८॥

दक्षिणां विधिवद्‌दत्वा कुमारीभ्यः क्रमेण तु ।
विवाहयेत् स्वयं कन्यां ब्रह्महत्यां व्यपोहति ॥३९॥

यावच्च पुण्यकाले तु कन्यादानं प्रकल्पयेत् ।
भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसम्पदः ॥४०॥

रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरः ।
तीर्थकोटिसहस्त्राणि अश्वमेधसतानि च ॥४१॥

तत्फलं लभते सद्यो यस्तु कन्यां विवाहयेत् ।
बालुकासागरे ज्ञेया तावदब्दसहस्त्रकम् ॥४२॥

एकैकं कुलामुद्‌धृत्य रुद्रलोके महीयते ।
तत्तदिष्टदेवानां प्रीतये तुष्टये सुधी ॥४३॥

कन्यादानं समाह्रत्य मुक्तिमाप्नोति भैरव ।
तत्तद्‌वर्षीयकन्यायास्तत्तद्‌बुद्धया च साधकः ॥४४॥

विभाव्य शिवरुपत्वं सम्प्रदानीयकारक ।
पूर्णरुपं शिवं ध्यात्वा वरं सर्वाङसुन्दरम् ॥४५॥

तेजोमयं यशःकान्तं बालभैरवरुपिणम् ।
बटुकोश महादेवं वरयेत् साधकाग्रणीः ॥४६॥

बालरुपां भैरवीं च त्रैलोक्यसुन्दरीं वराम् ।
नानालङ्कारनम्राङीं भद्रविद्याप्रकाशिनीम् ॥४७॥

चारुहस्यां महानन्दह्रदयां शुभदां शुभाम् ।
ध्याता द्वादशपत्राब्जे पूर्णचन्द्रनिभाननाम् ॥४८॥

सम्प्रदाने समानीय तत्तन्मन्त्रेण दापयेत् ।
एतत् श्रुत्वा महावीरो बाल(बल)रुपी निरञ्जनः ॥४९॥

पुनर्जिज्ञासयामास परमानन्दभैरवीम् ।
आनन्दभैरव उवाच
कुमारीकुलातत्त्वार्थं मन्त्रार्थं जपनक्रमम् ॥५०॥

यजनादिप्रकारञ्च भोजनादिक्रमं तथा ।
होमदिप्रकियां तस्याः स्तोत्रं प्रत्येकमेव हि ॥५१॥

कवचं च कुमारीणां वदस्व क्रमशः प्रिये ।
येन क्रमेण सा विद्या कुमारी परदेवता ॥५२॥

निर्जने साधकस्याग्रे महावाक्यं स्वयं वदेत् ।
बालिका चारुनयना केन होतोः प्रसीदति ॥५३॥

तत्प्रकारं वद स्नेहादानन्दभैरवप्रिये ।
आनन्दभैरवी उवाच
श्रृणु शम्भो प्रवक्ष्यामि कुमारी कुलमन्त्रकान् ॥५४॥

येन विज्ञानमात्रेण धरणीशो नरोत्तमः ।
सर्वेषा गुरुरुपः स्यात् कुमारीयजनेन च ॥५५॥

एकवर्षा वरा सन्ध्यादिकानां मनुमुत्तमम् ।
षोडशाच्छान्तरुपाणां मन्त्र श्रॄणु महाप्रभो ॥५६॥

क्रमादिकञ्च सर्वेषां चैतन्यसिद्धिसत्क्रियाम् ।
आनीय सुन्दरीं नारीं कुमारीं वरनायिकाम् ॥५७॥

रत्नालङ्कारसंयुक्ता शङ्कवस्त्रादिशोभिताम् ।
वाग्भवेन जलं नाथ तन्नाम्ना परिदापयेत् ॥५८॥

देवीबुद्‌ध्या सदा ध्यात्वा पूजयेत् साधकोत्तमः ।
मायाबीजेन तन्नाम्ना पाद्यं दद्यात् तथा प्रभो ॥५९॥

लक्ष्मीबीजेन चार्घ्यं तु कुर्याद्‌ बीजेन चन्दनम् ।
मायाबीजेन पुष्पाणि कुमार्यैं दापयेत् सुधीः ॥६०॥

सदाशिवेन मन्त्रेण धूपदीपौ महोत्तमौ ।
दत्त्वा षड्डुमन्त्रेण पूजयेद देवनायकः ॥६१॥

तत्प्रकारं महादेव श्रृणुष्वानन्दरुपधृक ।
महातेजोमयं शुभ्रं ह्रदयं हस्तदक्षिणैः ॥६२॥

विभाव्य प्रपठेद्‍ धीमान् तन्मन्त्रं श्रृणु शङ्कर ।
आदौ वाग्मभवमुच्चार्य मायां लक्ष्मीं तु कूर्चकम् ॥६३॥

प्रेतबीजं ततो ब्रूयात् सविसर्गेन्दुबिन्दुकम् ।
कुलशब्दं समुच्चार्य कुमारिके ततो वदेत् ॥६४॥

ह्रदयायः नमः प्रोच्य ततः शिरसि भावयेत् ।
शुक्लवर्णं सर्वमयं बीजमुच्चार्य संन्यसेत् ॥६५॥

हकारं वाग्भवाढ्यञ्च वकारं वाग्भवार्थकम् ।
मायां लक्ष्मीं वाग्भवं च द्विठान्ते शिरसे पदम् ॥६६॥

वहिनजायावधिर्मन्त्रो न्यसेत् साधकः ।
शिखामध्ये कृष्णवर्णं नीलाञ्चनचयप्रभम् ॥६७॥

विभाव्य संन्यसेन्मन्त्री कुमारीकुलासिद्धये ।
आदौ प्रणवमुद्‌धृत्व तदन्ते वहिनसुन्दरी ॥६८॥

शिखायै च समुद्‌धृत्य वषट्‌कारं ततो वदेत् ।
ततः कवचमध्ये च बलवन्तं सुतेजसम् ॥६९॥

प्रथमारुणसङ्काशं ध्यात्वा चारुकलेवरम् ।
वाग्भवञ्च समुच्चार्य कुलशब्दं ततो वदेत् ॥७०॥

वागीश्वरीपदं पश्चात् कवचाय ततो वदेत् ।
तारकब्रह्मशब्दञ्च कवचन्यासजालकम् ॥७१॥

ततो नेत्रत्रयं ध्यात्वा महाबीजं महाप्रभम् ।
रक्तवर्ण कोटिकोटिवामण्डल मण्डितम् ॥७२॥

विराजितं कोटिपुण्यार्जिततेजसि भास्करे ।
वाग्भवं च समुच्चार्य कुलेश्वरैपदं ततः ॥७३॥

नेत्रत्रयाय शब्दान्ते वौषट्‌ लोचनमन्त्रकम् ।
ततः साधकमन्त्री च वामहस्ततले तथा ॥७४॥

मध्यमातर्जनीभ्यां च तालद्वयमुपाचरेत् ।
तन्मन्त्रं कोटिसूर्योग्रज्योत्स्नाजालप्रभम् ॥७५॥

महाकाशोद्‌भवं शब्दं महोग्रपरिपीडनम् ।
मायाबीज तथास्ताय पदमुद्‌धृत्य यत्नतः ॥७६॥

पान्तठान्तं समुद्‌धृत्य महामन्त्रं प्रकीर्तितम् ।
ततस्तस्या ह्रन्निलये ध्यात्वा च परिवारकान् ॥७७॥

पूजयेद्‍ यत्नतो मन्त्री भेषजामृतधारया ।
तर्पयेत् पूजयेद्‍ भक्त्या भैरवं बालभैरवम् ॥७८॥

देवताभिः पूजयित्वा परिवारान् क्रमेण वै ।
ततो वाग्भमुच्चार्य सिद्धजयाय शब्दतः ॥७९॥

पूर्वं पदं समुच्चार्य वक्त्राय नम ईरितः ।
ततो वाग्भवमुच्चार्य जयाय शब्दमुद्धरेत् ॥८०॥

उत्तरवक्त्रमुद्‌धृत्य चतुर्थ्यन्तं नमःपदम् ।
ततो वाग्भवमाया श्री बीजमुच्चार्य यत्नतः ॥८१॥

कुब्जिके पश्चिमान्ते च वक्त्राय नम इत्यपि ।
ततो वाग्भमुचार्य कालिके पदमुच्चरेत् ॥८२॥

दक्षवक्त्राय शब्दान्ते नामामन्त्रं प्रकीर्तितम् ।
एतन्मन्त्राक्षरं नाथ समुच्चार्य कुलेश्वर ॥८३॥

पूजयित्वा क्रमेणैव भास्करं परिपूजयेत् ।
चन्द्रं दिक्पालदेवञ्च सन्ध्यादीन् परिपूजयेत् ॥८४॥

वीरभद्राम महाकालीं कौलिनीं कुलगामिनीम् ।
अष्टादशभुजां कालीं चतुर्वर्गा प्रपूजयेत् ॥८५॥

नैवेद्यादीन् समानीय नानाभोज्यादिसंयुतम् ।
दुग्धं घनावृतं क्षीर पक्वान्नं पक्वसत्फलम् ॥८६॥

यद्यत्कालोपयोग्यञ्च शर्करामधुमिश्रितम् ।
पञ्चतत्त्वं कुलद्रव्यं निजकल्याणवर्धनम् ॥८७॥

नानाद्रव्यञ्च नैवेद्यं स्वस्वकल्पोक्तसाधितम् ।
कुमारीभ्यो निवेधैवं नानासौरभशोभितम् ॥८८॥

शीतलं जलमानीय दद्यात्ताभ्यो महासुधीः ।
ततो हितं महामन्त्रं कुमार्याश्चातिदुर्लभम् ॥८९॥

अथवा स्वीयमूलञ्च जप्त्वा सिद्धीश्वरो भवेत् ।
समर्थप्राणवायूनां धारयेत्कारयेत् स्वयम् ॥९०॥

अष्टाङादिप्रणाम च कुर्वन् स्तोत्रं पठन् दिशेत् ॥९१॥

कुमारी स्तोत्र
नमामि कुलकामिनीं परमभाग्यसन्दायिनीम् ।
कुमाररतिचातुरीं सकलसिद्धिमानन्दिनीम् ॥९२॥

प्रवलगुटिकामृजां रजतरागवस्त्रन्विताम् ।
हिरण्यकुलभूषणां भुवनवाक्यकुमारी भजे ॥९३॥

इति मन्त्रेण संन्यस्य तारिणीं परिपूजयेत् ।
शिवं गणेशं सम्पूज्य प्रणमेत् साधकोत्तमः ॥९४॥

॥ इति श्रीरुद्रयामले उत्तरमतन्त्रे महान्त्रोद्‌दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णये सप्तम पटलः ॥७॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP