आनन्दभैरव उवाच
भावस्तु त्रिविधो देव दिव्यवीरपशुक्रमात् ॥७१॥

गुरुरस्य त्रिधा चात्र तथैव मन्त्रदेवताः ।
दिव्यभावो महादेव श्रेयसाम सर्वसिद्धिदम् ॥७२॥

द्वितीयो मध्यमः प्रोक्तस्तृतीयः सर्वनिन्दितः ।
बहुजपात्तथाहोमात् कायक्लेशादिविस्तरैः ॥७३॥

न भावेन बिना देवि तन्त्रमन्त्राः फलप्रदाः ।
किं वीरसाधनेनैव मोक्षविद्याकुलेन किम् ॥७४॥

किं पीठपूजनेनैव किं कन्याभोजनादिभिः ।
स्वयोषित्प्रीतिदानेन किं परेषां तथैव च ॥७५॥

किं जितेन्द्रियभावेन किं कुलाचारकर्मणा ।
यदि भावो विशुद्धार्थो न स्यात् कुलपरायणः ॥७६॥

भावेन लभते मुक्तिं भावेन कुलवर्द्धनम् ।
भावेन गोत्रवृद्धिः स्याद्‍ भावेन कुलशोधनम् ॥७७॥

किं तथा पूजनेनैव यदि भावो न जायते ।
केन वा पूज्यते विद्या केन वा पूज्यते मनुः ॥७८॥

फलाभावश्चच देवेश भावाभावात् प्रजायते ।
एतमन्त्रस्य कथने शङ्कते मम मानसः ॥७९॥

त्रिलोकं सञ्जयेत् प्रायः सर्वरत्नसमागमः ।
नावीक्ष्य निर्जनं कुर्यात् कथं तत् कथयामि ते ॥८०॥

श्रीआनन्दभैरव उवाच
त्वत्प्रसादान्महादेवि ! विद्यास्वप्नप्रबोधिनि ।
सर्वपञ्चप्रञ्चानां दीक्षा देया महेश्वरि ॥८१॥

यद्यतो देव सर्वेषां भूतानां स्वापकारणम् ।
करोमि कथय त्वं मां भावमार्गोत्तमोत्तमम् ॥८२॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP