भैरव उवाच
अथ भावं वद श्रीदे दिव्यवीरपशुक्रमात् ।
पशूनां परमाश्चर्यभावं श्रोतुं समुत्सुकः ॥१॥

इच्छाम्याहलादजलधौ स्थितोऽहं जगदीश्वरि ।
यदि भाग्यवशादाज्ञासारं चिन्तय सिद्धये ॥२॥

पशुभावः
महाभैरव्युवाच
पशुनाथ वीरनाथ दिव्यनाथ कृपानिधे ।
प्रकाशह्रदयोल्लास चन्द्रशेखर तच्छुणु ॥३॥

काली कलालताकारं तपस्याद्वयसङुतिम् ।
पशुभावस्थितां नाथ देवतां श्रृणु विस्तरीत् ॥४॥

दुर्गापूजां शिवपूजां यः करोति पशूत्तमः ।
अवश्यं हि यः करोति पशुरुत्तमः स्मृतः ॥५॥

केवलं शिवपूजाञ्च करोति यदि साधकः ।
पशूनां मध्यमः श्रीमान् शिवया सह चोत्तमः ॥६॥

केवलं वैष्णवोऽधीशः पशूनां मध्यमः स्मृतः ।
भूतानां देवतानञ्च सेवाम कुर्वन्ति ये सदा ॥७॥

पशूनां मध्यमाः प्रोक्तं नरकस्था न संशयः ।
त्वत्सेवां मम सेवाञ्च विष्णुब्रह्मादिसेवनम् ॥८॥

कृत्वान्यसर्वभूतानां नायिकानां महाप्रभो ।
यक्षिणीनां भूतिनीनां ततः सेवा शुभप्रदा ॥९॥

यः पशुर्ब्रह्मकृष्णादि सेवाम कुर्वन्ति ये सदा ।
तथा शीतारकब्रह्म सेवाद्वये नरोत्तमाः ॥१०॥

तेषामसाध्या भूतादिदेवताः सर्वकामदाः ।
वर्जयेत् पशुमार्गेण विष्णुसेवापरो जनः ॥११॥

प्रवक्तव्यञ्च पटले तेषां तेषां ततस्ततः ।
विधिना विधिना नाथ क्रमशः श्रृणु वल्लभ ॥१२॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP