अथान्यत् सम्प्रवक्ष्यामि सावधानावधारय ॥१११॥

उल्काचक्रं सर्वसारं मन्त्रदोषादिनिर्णयम् ।
मत्स्याकारमूर्ध्वमुखं सर्वन्त्रादि विग्रहम् ॥११२॥

स्कन्धदेशावधिर्नाथ पुच्छापर्यन्तमेव च ।
एकाक्षरीदिमन्त्रदिद्वादशान्ताक्षरात्मकम्  ॥११३॥

विलिखेत् पृष्ठदेशे तु शुभाशुभविशुद्धये ।
त्रयोदशाक्षरान् वाथ एकविंशाक्षरान्तकम् ॥११४॥

नेतव्यं साधकैर्मन्त्रं पृष्ठस्थमुदरस्थकम् ।
तथा श्रीशुभदं प्रोक्त कण्ठदिपुच्छाकान्तकम् ॥११५॥

द्वाविंशादि चतुस्त्रिशदक्षरान्तमनुं शुभम् ।
पुच्छस्थं नापि गृहणीयात् मुखस्थञ्च तथा ध्रुवम् ॥११६॥

शीर्षस्थाञ्चापि गृहणीयात् तदक्षरं श्रृणु प्रभो ।
पञ्चत्रिंशादि द्विचतुर्द्वविशंशदन्मेव च ॥११७॥

मस्तकस्थं शुभं प्रोक्तं मुखवर्णान् श्रृणु प्रभो ।
त्रिचरत्वारिंशशदर्णादि एकपञ्चाशदन्तकम् ॥११८॥

मुखस्थमन्तमशुभं न गृहणीयात् कदाचन ।
पृष्ठस्थं श्रृणु यत्नेन निरर्थकमहाश्रमम् ॥११९॥

श्रमगात्रस्य पीडाभिर्देवता कुप्यतेऽनिशम् ।
द्विपञ्चाशदक्षरादि एकषष्टितमान्तकान् ॥१२०॥

वर्णान् पुच्छास्थितानेतान् नेत्रस्थान् श्रृणु वल्लभ ।
द्विषष्टितमवर्णादि चतुःषष्ट्‌यक्षरान्तकान् ॥१२१॥

अङ्कं लोचनसंस्थं च ततोऽन्यं रसनास्थितम् ।
तत्सर्वं शुभदं प्रोक्तमेतदन्यतमं स्मृतम् ॥१२२॥

वैष्णवांनाञ्च शैवानां शाक्ताना मन्त्रजापने ।
ततोऽन्यदेवभक्तानां भुक्तिमुक्तिप्रदं नृणाम् ॥१२३॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP