तृतीयः पटलः - विष्णुचक्रम्

दीक्षायां सर्वचक्रानुष्ठानम्


विष्णुचक्रं प्रवक्ष्यामि चक्राकारं सुगोपनम् ॥११४॥

सर्वसिद्धिप्रदं शुद्धं चक्रं कृत्वा फलप्रदम् ।
श्रृणु नाथ महाविष्णोः स्थानं मङुलदायकम् ॥११५॥

लक्ष्मीप्रियमङ्कमयं नवकोण महाप्रभम् ।
तदूर्ध्वे च तमालिख्य तदूद्‌र्ध्वेऽष्टग्रहं शुभम् ॥११६॥

चतुष्कोणाकारगेहं सन्धौ शून्याष्टकं लिखेत् ।
तदूर्ध्वे च तमालिख्य चक्रमेतद्‍धनेश्वर ॥११७॥

पूर्वे महेन्द्राभरण मूद्‌र्ध्वदेशोल्लसत्करम् ।
मुनिरामखचन्द्राद्यमङ्कं सर्वसमृद्धिदम् ॥११८॥

दक्षिणे वहिनभरणं रसवेदे खयुग्मकम् ।
तदधो रामचक्रञ्च सप्तषट्‌सु च रामकम् ॥११९॥

तदधो निऋते स्वर्गे युगाङशून्यवेदकम् ।
केवलाधो जलेशस्य मन्दिरं सुमनोहरम् ॥१२०॥

रामेषु शून्यबाणाढ्यं तस्यामेवायुमन्दिरम् ।
भुजहस्तखरसाढ्यं चक्रेदमीश्वरात्मकम् ॥१२१॥

नवकोणं मध्यदेशे पञ्चाङुभागमालिखेत् ।
तन्मध्ये रचयेद्वर्णं पञ्चकोणे त्रिकोणके ॥१२२॥

इन्द्राधो विलिखेद्‌ धीरो वर्णमाद्यञ्च सप्तकम् ।
भागे दक्षिणकोणेषु ऋअकारादङ्कक लिखेत् ॥१२३॥

ककारादिकारान्तं तदधो विलिखेद्‍ बुधः ।
तद्वामे ठादिमान्तञ्च वर्णलक्षणकारणम् ॥१२४॥

तदूद्‌र्ध्वे यादिवर्णञ्च चक्रञ्च गणयेत्ततः ।
पूर्वकोणपतिः शक्रो द्वितीयेशो यमानलौ ॥१२५॥

निऋतिर्वरुणश्चैव तृतीयमन्दिरेश्वरः ।
चतुर्थाधिपतिर्वायुः कुबेरो नाथ इत्यपि ॥१२६॥

पञ्चगेहस्याधिपतिरिशो विश्वविदाम्बरः ।
पञ्चकोण प्रतिष्ठन्ति पञ्चभूताशयास्थिताः ॥१२७॥

प्राणे सिद्धिवाप्नोति चापाने व्याधिपीडनम् ।
समाने सर्वसम्पत्तिरुदाने निर्धनं भवेत् ॥१२८॥

व्याने च ईश्वरप्राप्तिरेतस्मिन् लक्षणं शुभम् ।
पूर्वगेहे महामन्त्रं मन्त्रत्यागं करोति यः ॥१२९॥

स तावत् साधकश्रेष्ठो विष्णुमार्गेण शङ्कर ।
विशेषं श्रृणु यत्नेन सावधानावधारय ॥१३०॥

सप्ताक्षरं त्र्यक्षरं च दशमाक्षरमेव च ।
पूर्वगेहे यदि भवेदाद्याक्षरसमन्वितम् ॥१३१॥

तदा भवति सिद्धिश्च सर्वमेवंप्रकारकम् ।
षष्ठाक्षरं वेदवर्णं विंशत्यर्णं महामुनम् ॥१३२॥

आमनायाद्यक्षरं व्याप्तं सफल गणयेद्‍ बुद्धः ।
तथास्मिन् मन गेहे च मन्त्रं सप्ताक्षरं शुभम् ॥१३३॥

षष्ठाक्षरञ्च गणयेत्त्रिंशदक्षरमेव च ।
आद्याक्षरसमायुक्त साध्यसाधकयोरपि ॥१३४॥

एकस्यापि च लाभे च मन्त्रसिद्धिरखण्डिता ।
मन्त्राक्षरादिलाभञ्च अवश्यं गणेयेदिह ॥१३५॥

नैऋते च जलेशस्य द्वयक्षरञ्च नवाक्षरम् ।
शून्यदेवाक्षरं नाथ गणनीयं विचक्षणैः ॥१३६॥

तथात्र अक्षरं मन्त्रं पञ्चाक्षरमनुं तथा ।
पञ्चाशदक्षरं मन्त्रं मन्दिरे गणयेत् शुभम् ॥१३७॥

वायुकोणे कुबेरस्य मन्दिरे गणयेत्तथा ।
द्वाविंशत्यक्षरं मन्त्रं शून्यषष्ठमनुं तथा ॥१३८॥

पञ्चाक्षरं तारिकायाः शिवे पञ्चाक्षरं तथा ।
सुसप्तन्त्रग्रहणे सफलं परिकीर्तितम् ॥१३९॥

ईशानपञ्चकोणे च सफलञ्च नवाक्षरम् ।
अष्टाक्षरं हि विद्याया गणयेत् सहितं सुधीः ॥१४०॥

एतदुक्तञ्च गणयेद्विरुद्धं नैव शीलयेत् ।
प्राणमित्रं समानञ्च समानो व्यानबान्धवः ॥१४१॥

एतत्स्थितञ्च गृहणीयाद्‍  दोषभाक्‍ स भवेत् क्वचित् ।
एकदैव प्रिये प्रीतिरेकगेहे तथा प्रियम् ॥१४२॥

गृहीत्वा विष्णुपदवीं प्राप्नोति मानवः क्षणात् ।
यदि चक्रं न विचार्य रिपुमन्त्रं सदा न्यसेत् ॥१४३॥

निजायुषं छिनत्त्येव मूको भवति निश्चितम् ।
विचार्य यदि यत्नेन सर्वचक्रे प्रियं हितम् ॥१४४॥

महामन्त्रं महादेव लघु सिद्‌ध्यति भूतले ॥१४५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सर्वचक्रानुष्ठाने सिद्धमन्त्रप्रकरणे भावनिर्णये भैरव भैरवीसंवादे तृतीयः पटलः ॥३॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP