तृतीयः पटलः - कूर्मचक्रम्

दीक्षायां सर्वचक्रानुष्ठानम्


कूर्मचक्रं प्रवक्ष्यामि शुभाशुभफलात्मकम् ॥७२॥

यज्ज्ञात्वा सर्वशास्त्राणि जानाति पण्डितोत्तमः ।
अभेद्यभेदकं चक्रं श्रृणुष्वादरपूर्वकम् ॥७३॥

कूर्माकारं महाचक्रं चतुष्पादसमावृतम ।
मुण्डे स्वरा दक्षपादे कवर्ग वामपादके ॥७४॥

चवर्ग कीर्तितं पश्चाद् अधःपादे टवर्गकम ।
तधधस्तु तवर्गं स्यादुदरे च पवर्गकम् ॥७५॥

यवान्त ह्रदये प्रोक्तं सहान्तं पृष्ठमध्यके ।
लाङ्‌गूले शत्रुबीजञ्च क्षकारं लिङुमध्यके ॥७६॥

लिखित्वा गणयेन्मन्त्री चक्रम कलिमलापहम् ।
स्वरे लाभं कवर्गे श्रीश्चवर्गे च विवेकदम् ॥७७॥

टवर्ग राजपदवीं तवर्गे धनवान् भवेत् ।  न्
उदरे सर्वनाशः स्याद् ह्रदये बहुदुःखदम् ॥७८॥

पृष्ठे च सर्वसन्तोषं लाङ्‌गूले मरणं ध्रुवम् ।
वैभवं (पृष्ठ?) लिङुदेशे तु दुःखञ्च वामपादके ॥७९॥

विरुद्धद्वयलाभे तु न कुर्याच्चक्रचिन्तनम् ।
विरुद्धैके धर्मनाशो युग्मदोषे च मारणम् ॥८०॥

यत्र देवाक्षरञ्चास्ति तत्र चेन्निजवर्णकम् ।
विरुद्धञ्चेत्त्यजेत् शत्रुमन्यमन्त्रं विचारयेत् ॥८१॥

पृथक्‌स्थाने यदि भवेद्वर्नमाला महेश्वर ।
यदि तत् सौख्यभावः स्यात् सौख्यं नापि विवर्जयेत् ॥८२॥

विभिन्नगेहे दोषश्चेत् शुभमन्त्रञ्च सन्त्यजेत् ।   
इति ते कथितं देवि (देव) दृष्टादृष्टफलप्रदम् ॥८३॥

यः शोधयेच्चरेद् वर्णं मन्त्रमालामहेश्वरः ।
यदि शुध्यति चक्रेन्द्रं मन्त्रसिद्धिप्रदं शुभम् ॥८४॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP