तृतीयः पटलः - राशिचक्रम्

दीक्षायां सर्वचक्रानुष्ठानम


राशिचक्रं प्रवक्ष्यामि सिद्धिलक्षणमुत्तमम् ।
क्रमेण देया युगला रेखा पूर्वापरोद्गमा ॥६२॥

तन्मध्यतो द्वयं दद्याद् रेखाग्निदक्षिणे ततः ।
अग्निनैऋतिवायवीशक्रमेण रेखयेत् तथा ॥६३॥

विलिखेन्मेषराश्यादि मीनान्तं सर्ववर्णकान् ।
कन्यागृहगतान् शादिवर्णानालिख्य यत्नतः ॥६४॥

गणयेत्साधकश्रेष्ठो लग्नाद्यामव्ययान्तकान् ।
स्वराशिदेवकोष्ठानामनुकूलान् भजेन्मनून् ॥६५॥

राशींना शुद्धता ज्ञेया त्यजेत् शत्रुमृतिं व्ययम् ।
स्वराशेर्मन्त्रराश्यन्तं गणनीयं विचक्षणैः ॥६६॥

साध्याद्यक्षराश्यन्तं गणयेत् साधकाक्षरात् ।
एकं वा पञ्च नवमं बान्धवं परिकीर्तितम् ॥६७॥

द्विषड्‌दशमसंस्थाश्च सेवकाः परिकीर्तिताः ।
रामरुद्राश्च मुनयः पोषकाः परिकीर्तिताः ॥६८॥

सूर्याष्टवेदयुक्तास्तु घातकाः सर्वदोषदाः ।
शक्त्यादौ तु महादेव कुलचूडामणिर्यतिः ॥६९॥

वर्जयेत् षष्ठगेहञ्च अष्टमं द्वादशं तथा ।
लग्नं धनं भ्रातृबन्धपुत्रशत्रुकलत्रकाः ॥७०॥

मरणं धर्मकर्मायव्यया द्वादशराशयः ।
नामानुरुपमेतेषां शुभाशुभफलं दिशेत् ॥७१॥

वैष्णव तु महाशत्रोः स्थाने बन्धुः प्रकीर्तितः ।

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP