तृतीयः पटलः - अकडमचक्रम्

दीक्षायां सर्वचक्रानुष्ठानम्



दीक्षापूर्वदिने कुर्यात् सुविचारं प्रयत्नतः ।
तत्प्रकारं प्रयत्नेन कार्यं पर्वतपूजित ॥१७॥

आदावकडवे सिद्धिर्मन्त्रं सञ्चारयेद् बुधः ।  द्
रेखाद्वयं पूर्वपरे मध्ये रेखाद्वयं लिखित् ॥१८॥

चतुष्कोणे चतूरेखाकडमं चक्रमण्डकलम् ।
भ्रामयित्वा महावृत्तं निर्माय वर्णमालिखेत् ॥१९॥

अकारादिक्षकारान्तान् क्लीबहीनान् लिखेत्ततः ।
एकैकमतो लेख्यान मेषादिषु (वृषा?) मीनान्तकान् ॥२०॥

वामावर्तेन गणयेत् क्रमशो वीरवल्लभ ।
तन्त्रमार्गेण गणयेन्नामादिवर्णाकादिमान् ॥२१॥

मेषादितोऽपि मीनान्तं क्रमशः शास्त्रपण्डितः ।
सिद्धसाध्यसुसिद्धादीन् पुनः सिद्धादयः पुनः ॥२२॥

नवैकपञ्चमे सिद्धः साध्यः षड्‌दशयुग्मके ।
सुसिद्धस्त्रिसप्तके रुद्रे वेदाष्टद्वादशे रिपुः ॥२३॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP