मंत्रः - द्वादशनाम स्तोत्रम्

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते , या विभागात उपासनेसाठीचे मंत्र आहेत .


श्रीगणेशाय नमः । श्रीलक्षीनृसिंहाय नमः । अस्यश्री लक्ष्मीनृसिंहद्वादशमामस्तोत्रमंत्रस्य ।

पुरंदर ऋषिः । अनुष्टुभ् छन्दः । श्रीलक्ष्मी परमात्मादेवता ॥ र्‍हां बीजम् । र्‍हीं शक्तिः ।

र्‍हुं कीलकम् । ममसमस्तपापक्षयार्थं जपे विनियोगः । अथ न्यासः । र्‍हां अंगुष्ठाभ्यांनमः ।

र्‍हीं तर्जनीभ्यां नमः । र्‍हुं मध्यामाभ्यां नमः । र्‍है अनामिकाभ्यां नमः । र्‍हौं कनिष्ठाकांभ्यां नमः ।

र्‍हः करतलकरपृष्ठाभ्यां नमः । ह्रदयाभ्यां नमः । र्‍हां ह्रदयाभ्यां नमः । र्‍हः करतलकरपृष्ठाभ्यां नमः ।

ह्रदयाभ्यां नमः । र्‍हां ह्रदयाभ्यां नमः । र्‍हीं शिरसे स्वाहा । र्‍हुं शिखायै वषट् ।

र्‍हैं हुम् । र्‍हौं नेत्रत्रयाय वषट् । र्‍हः अस्त्राय फट् । अथध्यानम् ।

भ्सत्यज्ञान सुखस्वरुपमलं क्षीराब्धिमध्यस्थलिम् । योगारुढामतिप्रसन्नवदनं भूषासहस्त्रोज्वलम् ॥

त्र्यक्षं चक्रपिनाकसाभयबराबिभ्राणमर्कछविम् । छत्रीभूतफणीन्द्र बिंदुधवलं लक्ष्मीनृसिंह भजे ॥१॥

मानसोपचारैः सम्पूज्य । प्रथमस्तु आह । ज्वालोद्वितीयं उग्रकेसरी ।

वज्रनखस्तृतीयास्तु चतुर्थश्च विदारणः । सिंहस्य पंचमं चैव षष्ठं च अरिमर्दनम् ।

सप्तमं रिपुहन्ताच अष्टमं देववल्लभः । प्रह्रादवरदो नवमं दशमं नृहरिस्तथा ॥

एकादशं महारौद्रः द्वादशं करुणानिधिः । एतानि द्वादशनामानि नृसिंहस्य महात्मनः ।

मन्त्रराजेति विख्यातः सर्ववापरं परम् । क्षयापस्मार कुष्ठादि ताप ज्वरनिवारणम् ।

राजद्वारे पथे घोरे संग्रामे शत्रुसकटे ।

गिरिकानसंघाते व्याघ्रचोरभयं हरेत् इति श्रीब्रह्मपुराणे उत्तरखण्डे श्री लक्ष्मीनृसिंह द्वादशनामस्तोत्रं सम्पूर्णमस्तु ॥

N/A

References : N/A
Last Updated : March 25, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP