तृतीयपरिच्छेदः - परिच्छेदः ९

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


‘मायाभासेन जीवशौ करो तीति श्रुतत्वतः। कल्पितावेव जीवेशौ ताभ्यांसर्वं प्रकल्पि तम्’
इत्यादिवाक्यैर्जीवेश्वरत्वे कल्पिते एव मायया स्वाधिष्ठाने ईश्वरत्वं कल्प्यते अथचा
विद्यया जीवत्वं कप्ल्यते नन्वसंगस्वप्रकाशात्मनि कथम विद्याकल्पनेति चेत, न
जानामीत्यनुभवसिद्धस्य अज्ञानस्य दुरपह्नवत्वात्- "ते ध्यानयोगानुगता अपश्यन् ॥
" तथा "देवात्मशक्तिं स्वगुणैर्निगूढामित्यादिश्रुतिप्रसिद्धा च"
"अज्ञानेनावृतं ज्ञानंतेन मुह्यंति जंतवः ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्"॥
इत्यादिभगवद्रीतावचनानि श्रोत्रियब्रह्मनिष्ठोपदिष्टतत्तवमस्यादिमहावाक्यविचारजन्यापरोक्षसाक्षात्कारेण
बाध्यमानाब्रह्मस्वरूपावरकतया कल्प्यमाना मायेत्यर्थमवबोधयंति इत्येतत्सर्वमनिच्छता
श्रुति दर्शनांधेन नास्तिकेन सांख्यतार्किकबलिवर्देन सर्वथेष्टव्यमेवेति
ब्रह्मसाक्षात्कारनिवर्त्यभावरूपाज्ञानसिद्धिः ननु तर्हि जगतः बीजरूपं प्रागवस्थात्मकं
अव्यक्तशब्दार्हं भावरूपमज्ञानं वेदांतसिद्धांते अभ्युपेयते प्रधानकारणतावाद एव सांख्यानां
संमतः स्वीकृत एव यतः सांख्यैर्जगतः प्रागवस्थारूपस्य त्रिगुणात्मकभावरूपस्य प्रधानत्वेनाभ्युपगमात्
अत्रोच्यते यदि वयं वेदांतिनः स्वतंत्रां कांचिज्जगतः प्रागवस्थां कारणत्वेनाभ्युपगच्छेम प्रसंजयेम
तदा प्रधानकारणतावादंनच तथाभ्युपगमः परमेश्वराधीना हि जगतः प्रागवस्थाऽऽस्माभिरभ्युपगम्यते
न स्वतंत्रा सा चावस्था श्रुतिषु क्वचिन्मायाशब्देन क्वचिदव्यक्तशब्देन क्वचिच्चाक्षरशब्देन निर्दिश्यत
इति न सांख्याभिमतस्वतंत्रप्रधानकारणतावादापत्तिर्वेदांतसिद्धांतिना
मिति सांख्यमतानिरासो वज्रलेपायित इत्यलं विस्तरेण।

कापालिकक्षपणबौद्धजिनादिसर्पा ।न्निर्जित्य कंककुलिकॉंश्र्च निरीश्र्वराद्यान् ॥
अन्यानि कापिलमतानि तिरस्कृतानि । वेदान्तशास्त्रमकरन्दतृतीयभागे ॥१॥

इति श्रीमत्परमहंसपरिव्राजकाचार्ययोगीन्द्रर्ययोगीन्द्रवर्यआत्मानन्दसरस्वतीस्वामिभिर्विरचितो
"वेदान्तशास्त्रमकरन्दे" निरीश्र्वरवादिसांख्यामत निरासपरोनाम
तृतीयपरिच्छेदः।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP