तृतीयप्रश्ने - द्वाविंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


प्रायश्चित्तम् ॥१॥
अग्नौ सक्तिर्बह्मघ्नस्त्रिरवच्छातस्य ॥२॥
लक्ष्यं वा स्याज्जन्ये शस्त्रभृताम् ॥३॥
खट्‌वाङगकपालपाणिर्वा द्वादश संवत्सरान्ब्रह्मचारी
भैक्षाय ग्रामं प्रविशेत्कर्माऽऽचक्षाणः ॥४॥
पथोऽपक्रामेत्संदर्शनादार्यस्य ॥५॥
स्थानासनाभ्यां विहरन्सवनेषूदकोपस्पर्शी शुध्येत् ॥६॥
प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ॥७॥
द्रव्यापचये त्र्यवरं प्रतिराद्धः ॥८॥
अश्वमेधावभृथे वा ॥९॥
अन्ययज्ञेऽप्यग्निष्टुदन्तश्चेत् ॥१०॥
सृष्टश्वेद्ब्राह्मणवधेऽहत्वाऽपि ॥११॥
आत्रेय्याश्वैवम् ॥१२॥
गर्भे चाविज्ञाते ॥१३॥
राजन्यवधे षड्‌वार्षिकं प्राकृतं ब्रह्मचर्यमृ -
षभैकसहस्त्राश्व गा दद्यात् ॥१४॥
वैश्ये तु त्रैवार्षिकमृषभैकशताश्च गा दद्यात् ॥१५॥
शूद्रे संवत्सरमृषमैकादशाश्व गा दद्यात् ॥१६॥
अनात्रेय्यां चैवम् ॥१७॥
गां च वैश्यवत् ॥१८॥
मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासु च ॥१९॥
अस्थन्वतां सहस्त्रं हत्वा ॥२०॥
अनस्थिमतामनडुद्भारे च ॥२१॥
अपि वाऽस्थन्वतामेकैकस्मिन्किंचिद्दद्यात् ॥२२॥
षण्ढे पलालभारः सीसमाषश्व ॥२३॥
वराहे घृतघटः ॥२४॥
सर्पे लोहदण्डः ॥२५॥
ब्रह्मबन्ध्वां चलनायां नीलः ॥२६॥
वैशिकेन किंचित् ॥२७॥
तल्पान्नधनलाभवधेषु पृथग्वर्षाणि ॥२८॥
द्वे परदारे ॥२९॥
त्रीणि श्रोत्रियस्य ॥३०॥
द्रव्यलाभे चोत्सर्गः ॥३१॥
यथास्थानं वा गमयेत् ॥३२॥
प्रतिषिद्धमन्त्रयोगे सहस्त्रवाकश्चेत् ॥३३॥
अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् ॥३४॥
स्त्री याऽतिचारिणी गुप्ता पिण्डं तु लभेत ॥३५॥
अमानुषीषु गोवर्जं स्त्रीकृते कूश्‍माण्डैर्घृतहोमो घृतहोमः ॥३६॥
इति श्रीहरदत्तविरचितायां गौतमीयधर्मशास्त्रे मिताक्षरायां
द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP