तृतीयप्रश्ने - एकोनविंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


उक्तो वर्णधर्मश्वाऽऽश्रमधर्मश्व ॥१॥
अथ खल्वयं पुरुषो याप्सेन कर्मणा लिप्यते
यथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनं
शिष्टस्याक्रिया प्रतिषिद्धसेवनमिति ॥२॥
तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते ॥३॥
न कुर्यादित्याहुः ॥४॥
न हि कर्म क्षीयत इति ॥५॥
कुर्यादित्यपरम् ॥६॥
पुनःस्तोमेनेष्‍ट्‌वा पुनःसवनमायान्तीति विज्ञायते ॥७॥
व्रात्यस्तोमैश्वेष्टवा ॥८॥
तरति सर्वं पाप्मानं तरति ब्रह्म -
हत्यां योऽश्वमेधेन यजते ॥९॥
अग्निष्टुताऽभिशस्यमानं याजयेदिति च ॥१०॥
तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥११॥
उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघम -
र्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजतरौहिणे सामनी
बृहद्रथंतरे पुरुषगतिर्महानाम्नो महावैराजं महादि -
वाकीर्त्यं ज्येष्ठसाम्नामन्यतमद्बहिष्पवमानं कूष्माण्डा -
नि पावमान्यः सावित्री चेति पावमानानि ॥१२॥
पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको हि -
रण्यप्राशनं घृतप्राशनं सोमपानमिति मेध्यानि ॥१३॥
सर्वे शिलोच्चयाः सर्वाः स्त्रवन्त्यः पुण्या ह्नदास्तीर्था -
न्यृषिनिवासा गोष्ठपरिस्कन्धा इति देशाः ॥१४॥
ब्रह्मचर्यं सत्यवचनं सवनेषूदकोपस्पर्शनमार्द्रवस्त्र -
ताऽधःशायिताऽनाशक इति तपांसि ॥१५॥
हिरण्यं गौर्वासोऽश्वो भूमिस्तिला
घृतमन्नमिति देयानीति ॥१६॥
संवत्सरः षण्मासाश्चत्वारस्त्रयो वा द्वौ वैकश्चतुर्विंशत्यहो
द्वादशाहः षडहस्त्र्यहोऽहोरात्र इति कालाः ॥१७॥
एतान्येवाऽनादेशे विकल्पेन क्रियेरन् ॥१८॥
एनःसु गुरुषु गुरुणि लघुषु लघूनि ॥१९॥
कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तम् ॥२०॥
इति श्रीहरदत्तविरचितायां गौतमीयधर्मशास्त्रे मिताक्षराया -
मेकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP