संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
चित्स्वरूपम्

सर्ववेदसारसंग्रहः - चित्स्वरूपम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः ।

बुद्ध्यादिभासकस्तस्माच्चित्स्वरूपस्तथा मतः ॥६१८॥

कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदा

सूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा ।

बुद्ध्यादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिविर्नैरात्मना

सोऽयं केवलचिन्मयश्रुतिमतो भानुर्यथा रुङ्मयः ॥६१९॥

स्वभासने वान्यपदार्थभासने

नार्कः प्रकाशान्तरमीषदिच्छति ।

स्वबोधने वाप्यहमादिबोधने

तथैव चिद्धातुरयं परात्मा ॥६२०॥

अन्यप्रकाशं न किमप्यपेक्ष्य

यतोऽयमाभाति निजात्मनैव ।

ततः स्वयंज्योतिरयं चिदात्मा

न ह्यात्मभाने परदीप्त्यपेक्षा ॥६२१॥

यं न प्रकाशयति किंचिदिनोऽपि चन्द्रः

नो विद्युतः किमुत वह्निरयं मिताभः ।

यं भान्तमेतमनुभाति जगत्समस्तम्

सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥६२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP