संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
पञ्चीकरणम्

सर्ववेदसारसंग्रहः - पञ्चीकरणम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


अनेनोद्भूतगणकं भूतं वक्ष्येऽवधारय ।

शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥४०९॥

तेजः शब्दस्पर्शरूपैर्गुणवत्कारणं क्रमात् ।

आपश्चतुर्गुगः शब्दस्पर्शरूपरसैः क्रमात् ॥४१०॥

एतैश्चतुर्भिर्गन्धेन सह पञ्च्गुणा मही ।

आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥४११॥

त्वङ्मरुतांशकतया स्पर्शं गृह्णाति तद्गुणम् ।

तेजोंशकतया चक्षू रूपं गृह्णाति तद्गुणम् ॥४१२॥

अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम् ।

भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥४१३॥

करोति खांशकतया वाक्षब्दोच्चारणक्रियाम् ।

वाय्वंशकतया पादौ गमनादिक्रियापरौ ॥४१४॥

तेजोंशकतया पाणी वह्न्याद्यर्चनतत्परौ ।

जलांशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥४१५॥

भूम्यन्शकतया पायुः कठिनं मलमुत्सृजेत् ।

श्रित्रस्य दैवतं दिक्स्यात्त्वचो वायुदृर्शो रविः ॥४१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP