संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
विज्ञानमयकोशः

सर्ववेदसारसंग्रहः - विज्ञानमयकोशः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


विज्ञानमयकोशः स्यात् बुद्धैर्ज्ञानेन्द्रियैअः सह ।

विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥३५०॥

विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते ।

अयं महानहङ्कारवृत्तिमान्कर्तृलक्षणः ॥३५१॥

अहं ममेत्येव सदाभिमानं

देहेन्द्रियादौ कुरुते गृहादौ ।

जीवाभिमानः पुरुषोऽयमेव

कर्ता च भोक्ता च सुखी च दुःखी ॥३५२॥

स्ववासनाप्रेरित एव नित्यं

करोति कर्मोभयलक्षणं च ।

भुङ्क्ते तदुत्पन्नफलं विशिष्टं

सुखं च दुःखं च परत्र चात्र ॥३५३॥

नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः ।

म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥३५४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP