संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
श्रद्धा

सर्ववेदसारसंग्रहः - श्रद्धा

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका ।

सत्यमित्येव सा श्रद्धा निदानं मुक्तिसिद्धये ॥२१०॥

श्रद्धावतामेव सतां पुमर्थः

समीरितः सिद्ध्यति नेतरेषाम् ।

उक्तं सुसूक्ष्मं परमार्थतत्त्वं

श्रद्धत्स्व सोम्येति च वक्ति वेदः ॥२११॥

श्रद्धाविहीनस्य तु न प्रवृत्तिः

प्रवृत्तिशून्यस्य न साध्यसिद्धिः ।

अश्रद्धयैवाभिहताश्च सर्वे

मज्जन्ति संसारमहासमुद्रे ॥२१२॥

दैवे च वेदे च गुरौ च मन्त्रे

तीर्थे महात्मन्यपि मेषजे च ।

श्रद्धा भवत्यस्य यथा यथान्त -

स्तथा तथा सिद्धिरुदेति पुंसाम् ॥२१३॥

अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् ।

सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया ॥२१४॥

तस्माच्छ्रद्धा सुसंपाद्या गुरुवेदान्तवाक्ययोः ।

मुमुक्षः श्रद्दधानस्य फलं सिद्ध्यति नान्यथा ॥२१५॥

यथार्थवादिता पुंसां श्रद्धाजननकारणम् ।

वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥२१६॥

मुक्तस्येश्वररूपत्वाद्गुरोर्वागपि तादृशी ।

तस्मात्तद्वाक्ययोः श्रद्धा सतां सिद्ध्यति धीमताम् ॥२१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP