व्यवहाराध्यायः - साधारणव्यवहारमातकाप्रकरणम

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


व्यवहारान्नपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।

धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥१॥

श्रुताध्यनसंपन्ना धर्मज्ञाः सत्यवादिनः ।

राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥२॥

अपश्यता कार्यवशाव्द्यवहारान्नपेण तु ।

सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥३॥

रागाल्लोभाद्भयाद्वापि स्मत्यपेतादिकारिणः ।

सभ्या पथक् पथक् दण्ड्या विवादाद्द्विगुणं दमम् ॥४॥

स्मत्याचारव्यपतेने मार्गेणाधर्षितः परैः ।

आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥५॥

प्रत्यर्थिनोऽग्नतो लेख्यं यथावेदितमथिना ।

समा -मास -तदर्धार्नामजात्यादिचिह्नितम् ॥६॥

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ।

ततोऽर्थीं लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥७॥

तत्सिसद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा ।

चतुष्पाद्य्ववहारोऽयं विवादेषूपदर्शितः ॥८॥

चतुष्पाद्य्वबहारोऽयं विवादेषूदर्शितः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP