आचाराध्यायः - उपोद्धातप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


ॐ योगीश्र्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।

वर्णाश्रमेतराणां नो ब्रुहि धर्मानशेषतः ॥१॥

मिथिलास्थः स योगींन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।

यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत ॥२॥

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥३॥

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिरः ।

यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥४॥

पराशरव्यासशंखलिखिता दक्षगौतमौ ।

शातातपो वसिष्ठश्र्च धर्मशास्त्रप्रयोजकाः ॥५॥

देशे काले उपायेन द्रव्यं श्रद्धासमन्वितम् ।

पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥६॥

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

स्म्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥७॥

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।

अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥८॥

चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा ।

सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP