संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ सप्तविंशोऽध्यायः

तृतीयः स्कन्धः - अथ सप्तविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीभगवानुवाच

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः ।

अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत ॥१॥

स एष यर्हि प्रकृतेर्गुणेष्णभिविषज्जते ।

अहंक्रियाविमुढात्मा कर्तास्मीत्याभिमन्यते ॥२॥

तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः ।

प्रासंगिकैः कर्मदोषैः सदसन्मिश्रयोनिषु ॥३॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्रेऽनर्थानमो यथा ॥४॥

अत एव शनैश्चित्तं प्रसक्तमसतां पथि ।

भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम ॥५॥

यमादिभिर्योगपथैरभ्यसन श्रद्धान्वितः ।

मयि भावेन सत्येन मत्कथाश्रवणेन च ॥६॥

सर्वभुतसमत्वेन निर्वेरेणाप्रसंगतः ।

बह्मचर्येण मौनेन स्वधर्मेण बलियसा ॥७॥

यदृच्छ्योपलब्धेन सन्तुष्टो मितभुड मुनिः ।

विविक्तशरण शान्तो मैत्र करुण आत्मवान ॥८॥

सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम ।

ज्ञानेन दृष्टत्त्वेन प्रकृतेः पुरुषस्य च ॥९॥

निवृत्तबुद्धयवस्थनो दुरीभुतान्यदर्शनः ।

उपलभ्यात्मनाऽऽत्मानं चक्षुषेवार्कमात्मदृक ॥१०॥

मुक्तलिंग सदाभासमसति प्रतिपद्यते ।

सतो बन्धुमसच्चक्षुः सर्वानुस्युमद्वयम ॥११॥

यथा जलस्थ आभासः स्थलस्थेनावदृश्यते ।

स्वाभासेन तथा सुर्यो जलस्थेन दिवि स्थितः ॥१२॥

एवं त्रिवृदहंकारो भुतेन्द्रियमनोमयैः ।

स्वाभासैर्लभितोऽनेन सदाभासेन सत्यदृक ॥१३॥

भुतसुक्ष्मेन्द्रियमनोबुद्धादिष्विह निद्रया ।

लीनेष्वसति यस्तत्र विनिद्रो निरहंक्रिय ॥१४॥

मन्यमानस्तदाऽऽत्मानमनष्टो नष्टवन्मृषा ।

नष्टेऽहंकरणे द्रष्टा नष्टवित्त इवातुरः ॥१५॥

एवं प्रत्यवमृश्यसावात्मानं प्रतिपद्यते ।

साहकांरस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥१६॥

देवहुतिरुवाच

पुरुषं प्रकृतिर्ब्रह्मान्न विमुचंति कर्हिचित ।

अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो ॥१७॥

यथा नन्धस्य भुमेश्च न भावो व्यतिरिकतः ।

अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥१८॥

अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः ।

गुणेषु सत्सु प्रकृतेः कैवल्य तेष्वतः कथम ॥१९॥

क्वचित तत्वावर्शेन निवृतं भयमुल्बणम ।

अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते ॥२०॥

श्रीभगवानुवाच

अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।

तीव्रया मयी भक्त्या च श्रुत्सम्भृतया चिरम ॥२१॥

ज्ञानेना दृष्टतत्त्वेन वैराग्येण बलीयसा ।

तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥२२॥

प्रकृतिः पुरुष्यस्येह दह्मामाना त्वहर्निशम ।

तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः ॥२३॥

भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ।

नेश्वरस्याशुभं धत्ते स्वे महिम्ति स्थितस्य च ॥२४॥

यथा ह्याप्रतिबुद्धया प्रस्वापो बह्वनर्थभृत ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥२५॥

एवंज विदिततत्वस्य प्रकतिर्मयि मानसम ।

युत्र्जतो नापकुरुत आत्मारामस्य कर्हिचित ॥२६॥

यदैवमध्यात्मरतः कालेन बहुजन्मना ।

सर्वत्र जातवैराग्य आब्रह्माभुवनान्मुनिः ॥२७॥

मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भुयसा ।

निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम ॥२८॥

प्राप्रोतीहात्र्जसा धीरह स्वदृशा छिन्नसंशयः ।

यद्गत्वा न निवर्तेत योगी लिंगाद्विनिर्गमे ॥२९॥

यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽगं ।

अनन्यहेतुष्वथ मे गतिः स्याद आत्यन्तिकी यत्र न मृत्युहासः ॥३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP