संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
तृतीयोऽध्यायः

कूर्मपुराणः - तृतीयोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


अव्यक्त शिवतत्त्वसे सृष्टिका कथन, परमात्माके स्वरुपका वर्नन तथा प्रधान , पुरुष एवं महादादि तत्वांसे सृष्टिका क्रम वर्णन , शिवस्वरुपका निरुपण.

ईश्वर उवाच

अव्यक्तदभवत कालः प्रधान पुरुषः परः ।

तेभ्यः सर्वमिदं जातं तस्माद ब्रह्मामयं जगत ॥१॥

सर्वतः पाणिपादं तत सर्वतोऽक्षिशिरोमुखम ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥२॥

सर्वोन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम ।

सर्वाधारं सदानन्दमव्यक्त द्वैतवर्जितम ॥३॥

सर्वोपमानरहितं प्रमाणतीतगोचरम ।

निर्विकल्पं निराभासं सर्वावांस परामृतम ॥४॥

अभिन्नं भिन्नसंस्थानं शाश्वंत ध्रुवमव्ययम ।

निर्गुणं परमं व्योम तज्ज्ञानं सुरयो विदुः ॥५॥

स आत्मा सर्वभुतानां स ब्राह्मभ्यन्तरं परः ।

सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥६॥

मया ततामिदं विश्‍वं जगदव्यक्तमुर्तिना ।

मत्स्थानि सर्वभुतानि यस्तं वेद वेदवित ॥७॥

प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम ।

तयोदनादिरुद्दिष्ट कालः संयोजकः परः ॥८॥

त्रयमेदनाद्यन्त्मव्यक्ते समवस्थितम ।

तदात्मकं तदन्यत स्यात तद्रूपं मामकं विदुः ॥९॥

महादाद्यं विशेषन्तं सम्प्रसुतेऽखिलं जगत ।

या स प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनम ॥१०॥

पुरुषः प्रकृतिस्थो हि भुंक्ते यः प्राकृतान गुणान ।

अहंकारविमुक्तत्वात प्रोच्यते पंचविशंकः ॥११॥

आद्यो विकारः प्रकृतेर्महानत्मेति कथ्यते ।

विज्ञानशोक्तिर्विज्ञाता ह्राहंकरस्तदुत्थितः ॥१२॥

एक एव महानात्मा सोऽहंकारोऽभिधीयते ।

स जीवः सोऽन्तरात्मोत गीयते तत्त्वचिन्तकैः ॥१३॥

तेन वेदयते सर्व सुखं दुःखं च जन्मसु ।

स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम ॥१४॥

तेनाविविएकतस्तस्मात संसारःपुरुषस्य तु ।

स चाविवेकः प्रकृतौ संगात कालेन सोऽभवत ॥१५॥

कालः सृजति भूतानि कालः संहरति प्रजाः ।

सर्व कालस्य वंशगा न कालः कस्याचिद वशे ॥१६॥

सोऽन्तरा सर्वर्मवेदं नियच्छति सनातनः ।

प्रोच्यते भगवान प्राणः सर्वज्ञ पुरुषोत्तम ॥१७॥

सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः ।

मनसश्चाप्यहंकारमहंकारान्महान परः ॥१८॥

महतः परमव्यक्तमव्यक्तात पुरुषः परः ।

पुरुषाद भगवान प्रणस्तस्य सर्वमिदं जगत ॥१९॥

प्राणात परतरं व्योम व्य्मातीतोऽग्निरीश्वरः ।

सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ।

नास्ति मत्तः परं भूतं मां विज्ञाया विमुच्यते ॥२०॥

नित्य ही नास्ति जगति भूतं स्थावजंगमम ।

ऋते मामेकमव्यक्तं व्योमरुपं महेश्वरम ॥२१॥

सोऽहं सृजामि सकलं संहारामि सदा जगत ।

मायी मायामयो देवः कालेन सह संगतः ॥२२॥

मत्संनिधावेष कालः करोति सकलं जगत ।

नियोजयत्यनन्तात्मा ह्योतद वेदानुशासनम ॥२३॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे ( ईश्‍वरगीताका ) तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP