द्वाविंशोऽध्यायः - प्रकीर्णक

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


स्वऋक्ष तुङ्ग मूल त्रिकोणगाः कण्टकेषु यावन्ताश्रिताः ।

सर्वैव ते अन्योन्य कारकाः कर्मगस्तु तेषां विशेषतः ॥१॥

कर्कटोदय गते यथोडुपे स्वोच्चगाः कुजयमार्क सूरयः ।

कारका निगदिताः परस्परं लग्नगस्य सकलोऽम्बराम्बुगः ॥२॥

स्व त्रिकोणोच्चगो हेतुरन्योन्यं यदि चर्मगः ।

सुहृत् तद्गुण सम्पन्नः कारकश्चापि स स्मृतः ॥३॥

शुभं वर्गोत्तमे जन्म वेशि स्थाने च सद् गृहे ।

अशून्येषु च केन्द्रेषु कारकाख्य ग्रहेषु च ॥४॥

मध्ये वयसः सुख प्रदाः केन्द्रस्था गुरु जन्म लग्नपाः ।

पृष्ठोभयकोदयऋक्षगास्त्वन्ते अन्तः प्रथमेषु पाकदाः ॥५॥

दिन कररुधिरौ प्रवेष काले गुरु भृगुजौ भवनस्य मध्ययातौ ।

रवि सुत शशिनौ विनिर्गमस्थौ शशि तनयः फलदस्तु सर्व कालम् ॥६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP