अष्टमोऽध्यायः - श्लोक २१ ते ३२

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


दिगमध्य संस्थाः शुभदा नराणां व्यंगेषु बन्धं पशुपत्तिनाशम । याम्योत्तरं हीनधनं करोति हीनोदकं करोति ॥२१॥

चतुर्थीष्टमगैः पापैर्लग्नेगे वा खलग्रहे । चन्द्रेऽष्टमे तदा कर्ता म्रियते मासमध्यतः ॥२२॥

केन्द्रपापग्रहैर्युक्ते अष्टमे च व्ययेऽपि वा । धर्म स्थानगतैर्वापि तज्जलं क्षीयते चिरात ॥२३॥

केन्द्रगैः सौरिभौमार्कैरष्टमस्थे निशाकरे । तज्जलं वर्षमध्ये तु न तिष्ठति जलाशये ॥२४॥

एकः पापोऽष्टमस्थानोऽपि चतुर्थे सिंहिकासुतः । नवमे भूमिपुत्रस्तु तज्जलं विषवत्स्मृतम ॥२५॥

नन्दाद्याः पूजनीयाश्च पूर्वाक्ते नैव मार्गतः । ईशानादिक्रमेणैव न्यसेद्दिक्छोधिते स्थले ।

मध्ये पूर्णा विनिःक्षिप्य कुम्भोपरि शुभे दिने । वरुणस्य विधायादौ पूजां मंतैश्च वारुणैः ॥२६॥

वटवेतसकीलानां शिरास्थाने निवेशनम । ततो ग्रहार्चनं वास्तुपूजाविधिमतः परम ॥२७॥

सौम्यायने कटिगते पतंगे मधुं विना शीतकरे सुपूर्णे ।

तथा विरिक्ते विकृते च वारे कार्या प्रतिष्ठा च जलाशयानाम ॥२८॥

लग्नेषु सौम्यग्रहवीक्षितेषु कार्या प्रतिष्ठा खलु तत्र तेषाम ।

जलोदये पूर्णशशी च केन्द्रे जीवे विलग्ने भृगुजेऽस्तगे वा ॥२९॥

एकोऽपि चान्ये भवने स्वकीये केंद्रस्थितो वा शुभदो नराणाम ।

एकोऽपि जीवज्ञसितासितानांस्वोच्चस्थितानां भवने स्वकीये ॥३०॥

केंद्रत्रिकोणोपगता नराणां शुभावहं तत्सलिलं स्थिरं स्यात ॥३१॥

ये कुर्वति नराः पुण्याः पुरे पानीयशालिकाम । विष्णुनासह मोदंते यावद्भूमण्डले जलम ॥३२॥

इति वास्तुशास्त्रे जलाशयादिकरणेऽष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP