षष्ठोऽध्यायः - श्लोक ८१ ते १००

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


एवं तु त्रिविधं कुर्याज्ज्येष्ठमध्यकनीयसम । लिंगमानानुभेदेन रुपभेदेन वा पुनः ॥८१॥

एते सामान्यतः प्रोक्ता नामतः श्रृणुताधुना ॥ मेरुमन्दरकैलासकुम्भसिंहमृगास्तया ॥८२॥

विमानच्छन्दकस्तद्वच्चतुरस्त्रस्तथैव च। अष्टास्त्रः षोडशास्त्रश्च वर्तुलः सर्वभद्रकः ॥८३॥

सिंहश्च नन्दनश्चैव नन्दिवर्द्धन एव च । सिंहो वृषः सुवर्णश्च पद्मकोऽथ समुद्रकः ॥८४॥

प्रासादा नामतः प्रोक्ता विभागं श्रृणुत द्विजाः । शतश्रृंगश्चतुर्द्वारो भूमिकाषोडशोच्छ्रितः ॥८५॥

नानाविचित्रशिखरो मेरुप्रासाद उच्यते । मन्दरो द्वादशः प्रोक्तः कैलासो नवभूमिकः ॥८६॥

विमानच्छन्दकं तद्वनेकशिखरानतः । स चाष्टभूमिकस्तद्वत्सप्तभिर्नन्दिवर्द्धनः ॥८७॥

विशांण्डकसमायुक्तो नन्दनः समुदात्दृतः । षोडशास्त्रकसंयुक्तो नानारुपसमन्वितः ॥८८॥

अनेकशिखरस्तद्वत्सर्वतोभद्र उच्यते । चंद्रशालासमोपेतो विज्ञेयः पञ्चभूमिकः ॥८९॥

वलभीच्छन्दकस्तद्वच्छुकनासस्त्रयान्वितः । वृषस्योच्छ्रायतस्तुल्यो मण्डितश्चित्रवर्जितः ॥९०॥

सिंहः सिहगतिर्ज्ञेयो गजो गजसमस्तथा । कुम्भः कुम्भाकृतिस्तद्वद्भूमिकानवकोच्छ्रयः ॥९१॥

अंगुलीपुटसंस्थानपञ्चाण्डकविभूषितः । षोडशास्त्रः समन्तातु विज्ञेयः ससमुद्रकः ॥९२॥

पार्श्वयोश्चन्द्रशालस्य उच्छ्रायो भूमिकाद्वयम । तथैव पद्मकः प्रोक्त उच्छ्रायो भूमिकाद्वयम ॥९३॥

षोडशास्त्रः स विज्ञेयो विचित्रशिखरः शुभः । मृगराजस्तु विख्यातश्चंद्रशालाविभूषितः ॥९४॥

प्राग्ग्रीवेण विशालेन भूमिकासषडुन्नता । अनेकचंद्रशालस्तु गजप्रासाद उच्यते ॥९५॥

पर्यंकगृहराजो वै गरुडो नामनामतः । सप्तभूम्युच्छ्रय स्तद्वच्चन्द्रशालात्रयान्वितः ॥९६॥

भूमिकास्तु षडशीतिर्बाह्यतः सर्वतो भवेत । तथान्यो गरुडस्तद्वदुच्छ्रायो दशभूमिकः ॥९७॥

पद्मकः षोडशास्त्रस्तु भूमिद्वयमथाधिकः । पद्मतुल्यप्रमाणेन श्रीतुष्टक इति स्मृतः ।

पञ्चांडकस्त्रिभूमिस्तु गर्भे हस्तचतुष्टयम ॥९८॥

वृषो भवति नाम्ना यः प्रासादः सर्वकामिकः । सप्तकाः पञ्चकाश्चैव प्रासादा ये मदोदिताः ।

सिंहस्य ते समा ज्ञेया ये चान्येऽन्यप्रमाणतः ॥९९॥

चंद्रशालैस्समोपेताः सर्वे प्राग्ग्रीवसंयुताः । ऐष्टिका दारवाश्चैव शैलजाश्च सतोरणाः ।

मेरुः पञ्चाशद्धस्तः स्यान्मन्दारः पञ्चहीनकः ॥१००॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP