मेघदूत उत्तरमेघा - श्लोक २१ ते २५

"मेघदूत" की लोकप्रियता भारतीय साहित्य में प्राचीन काल से ही रही है।


तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।

श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः ॥२१॥

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।

गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥२२॥

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःष्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।

हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥२३॥

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।

पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां कच्चित् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२४॥

उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।

तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथं चिद् भूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥२५॥

N/A

References : N/A
Last Updated : March 21, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP